Bhagavad Gīta Bhāshya and Tātparya
B.G 18.14
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥१४॥
Gīta Bhāshya 18.14
अधिष्ठानं देहादिः। कर्ता विष्णुः। स हि सर्वकर्ता इत्युक्तम्। जीवस्य चाकर्तृत्वे प्रमाणं उक्तम्। करणं इङ्द्रियादि च। चेष्टाः क्रियाः। हस्तादिक्रियाभिः हि होमादिकर्माणि जायन्ते। ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनी चेष्टापि संस्कारकारणत्वेन भवति। दैवं अदृष्टम्। तथा च आयास्यश्रुतिः-
"देहो ब्रह्माथेंद्रियाद्याः क्रियाश्च तथादृष्टं पञ्चमं कर्महेतुः।"
इति॥
Gīta Tātparya 18.14
अधिष्ठानं शरीरादि॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.