Bhagavad Gīta Bhāshya and Tātparya
B.G 17.23
ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३॥
Gīta Bhāshya 17.12
पुनश्च कर्मादीतिकर्तव्यताविधानार्थं अर्थवादमाह- ओं तत्सत् इत्यादिना॥
परस्य ब्रह्मणो हि एतानि नामानि-
"ओतं जगद्यत्र स्वयं च पूर्णो वेदोक्तरूपोऽनुपचारतश्च। सर्वैः शुभैश्चाभियुतो न चान्यैः ओं तत्सदित्येनमतो वदन्ति॥"
इति हि ऋग्वेदखिलेषु।
द्वितीयपादः तच्छब्दार्थः।
"सदेव सोम्य इदमग्र आसीत्"
इति च।
"ओमिति ब्रह्म"
इति च।
तेन ब्रह्मणा। आत्म पूजार्थम्। वेदविधिः र्व्यञ्जनम्। मा तु उक्ता पुरस्तात्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.