Bhagavad Gīta Bhāshya and Tātparya
B.G 17.01
अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१॥
Gīta Bhāshya 17.01
गुणभेदान् प्रपञ्चयति अनेन अध्यायेन।
शास्त्रविधिमुत्सृज्य अज्ञात्वा।
"वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना।"
इति विधिः उत्सृष्टो हि तैः।
"ये वै वेदं न पठन्ते न चार्थं वेदोज्झान् तान् विद्धि सानूनबुद्धीन्।"
इति माधुच्छन्दसश्रुतिः।
अन्यथा तामसा इत्येवोच्येत। न तु विभज्य। यदि सात्त्विका तर्हि नोऽत्सृष्टशास्त्राः। न हि वेदविरुद्धो धर्मः।
"वेदोखिलो धर्ममूलम् स्मृतिशीले च तद्विदाम्।"
इति हि स्मृतिः।
"वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः॥"
इति भागवते ॥१॥
Gīta Tātparya 17.01
सदसत्कर्मविवेकः।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.