Bhagavad Gīta Bhāshya and Tātparya
B.G 15.16, 17 and 18
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१७॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥
Gīta Bhāshya 15.16, 17 and 18
क्षरभूतानि ब्रह्मादीनि। कूटस्थः प्रकृतिः। तथाच शार्कराक्ष्यश्रुतिः-
"प्रजापतिप्रमुखाः सर्वजीवाः क्षरोक्षरः पुरुषो वै प्रधानम्। तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्॥"
इति ॥१६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये पञ्चदशोध्यायः ॥
Gīta Tātparya 15.16, 17, and 18
ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः। श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः। चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः। कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम्॥
क्षराक्षरात्मनोः यस्मादुत्तमः स सदाऽनयोः। पुरुषोत्तमनाम्नातः प्रसिद्धो लोकवेदयोः॥
इति नारायणश्रुतिः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये पञ्चदशोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.