Bhagavad Gīta Bhāshya and Tātparya
B.G 12.01
अर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१॥
Gīta Bhāshya 12.01
अव्यक्तोपासनात् भगवदुपासनस्य उत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयति अस्मिन्नध्याये।
तदुपासनमपि हि मोक्षसाधनं प्रतीयते-
"श्रियं वसना अमृतत्वमायन्। भवन्ति सत्या समिथा मितद्रौ॥"
इति।
"अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते॥"
इति च।
अव्यक्तं च महतः परम्- "महतः परमव्यक्तम्" इत्युक्त परामामर्शोपपत्तेः ।
"उपास्य तां श्रियमव्यक्तसञ्ज्ञां भक्त्या मर्त्यो मुच्यते सर्वबन्धैः।"
इति सामवेदे आग्निवेश्यशाखायाम्॥
महच्च माहात्म्यं तस्याः वेदेषु उच्यते-
"चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते। तस्यां सुपर्णा वृषणा निषेदतुः यत्र देवा दधिरे भागधेयम्॥"
इति।
"अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः॥"
इत्यारभ्य -
"अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम्। मया सो अन्नमत्ति यो वि पश्यति यः प्राणिति य ईम् शृणोत्युक्तम्। अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धि वं ते वदामि।"
"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं त मृषिं तं सुमेधाम्। अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्त वा उ।"
"अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वान्तः समुद्रे। परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव॥"
इत्यादि।
"त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया॥"
इति च।
इति शङ्का कस्यचित् भवति। अतो जानन्नपि सूक्ष्मयुक्ति ज्ञानार्थं पृच्छति- एवमिति।
एवंशब्देन दृष्टश्रुतरूपं "मत्कर्मकृत्" इत्यादिप्रकारश्च परामृश्यते। अव्यक्तं प्रकृतिः। "महतः परमव्यक्तम्" इति प्रयोगात्।
"यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं प्राहुः अविशेषं विशेषवत्॥"
इति च भागवते।
अक्षरं च तत्-
"अक्षरात् परतः परः।"
इति श्रुतेः।
परं तु ब्रह्म न हि भगवतोन्यत्-
"आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे॥"
इति भागवते।
रूपं च ईदृशं साधितं पुरस्तात्। उपासनं च तथैव कार्यम्-
"सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्"
इत्यारभ्य
"तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते॥"
इति साभ्यासा। आदित्यवर्णत्वादिश्च न वृथा उपचारत्वेन अङ्गीकार्यः।
तथा च सामवेदे सौकरायणश्रुतिः-
"स्थाणुर्ह वै प्राजापत्यः स प्रजापतिं पितरमेत्य उवाच -
मुमुक्षुभिः साधुभिः पूतपापैः किमु ह वै तारकं तारवाच्यम्। ध्यानं च तस्याप्तरुचेः कथं स्यात्। ध्येयश्च कः पुरुषोऽलोमपाद इति।
तं होवाच-
एष वै विष्णुः तारकोऽलोमपादो ध्यानं च तस्याप्तरुचेर्वदामि॥
सोऽनन्तशीर्षो बहुवर्णः सुवर्णो ध्येयः स वै लोहितादित्यवर्णः॥
श्यामोऽथवा हृदये सोष्टबाहुरनन्तवीर्योऽनन्तबलः पुराणः॥"
इत्यादि।
अरूपत्वादेस्तु गतिरुक्ता। पुरुषभेदश्च प्रश्नादौ प्रतीयते- "त्वां पर्युपासते", "ये चाप्यक्षरमव्यक्तम्" इत्यादौ ॥१॥
Gīta Tātparya 12.01

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.