B.G 9.34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥३४ ॥
Gīta Bhāshya 9.34
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराज्यगुह्ययोगो नाम नवमोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये नवमोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोध्यायः ॥
कुतः ? क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव चैतद् भवति । उक्तं च शाण्डिल्यशाखायाम्- 'नाविरतो दुश्चरितान्नाभक्तो नासमाहितः ।
सम्यग् भक्तो भवेत् कञ्चिद् वासुदेवेमलाशयः ।
देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः ॥ इति ।
अतोन्यः कश्चिद् भवति चेत् डाम्भिकत्वेन सोनुमेयः । साधारण- पापानां तु सत्सङ्गान्महत्यपि कथञ्चिद् भक्तिर्भवति । साधारण- भक्तिर्वेतरेषाम् ।
'शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवैहि नास्य(भक्तम्)भक्तिः'' । इति हि श्रीविष्णुपुराणे ।
'सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसाम्'' इति च ।
'वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् ।
पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् ।
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोस्मि नित्यम् ।
तं चापि देवं शरणं प्रपन्नः एकान्तभावेन नमाम्यजस्रम् ।
एतै(रुपायैः)र्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम्'' ॥ इति मोक्षधर्मे आचारस्य साधनत्वोक्तेश्च । ज्ञानाभावे च सम्यग्भक्त्यभावात् । तथाहि गौतमखिलेषु- 'विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्'' । इति ।
'भक्तिः परे स्वेनुभवो विरक्तिरन्यत्र चैष त्रिक एककालम्'' इति च भागवते ॥ ३१-३४ ॥
Gīta Tātparya 9.34
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराज्यगुह्ययोगो नाम नवमोध्यायः ॥
'पापादिकारिताश्चैव पुंसां स्वाभाविका अपि ।
विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः ।
यान्ति स्त्रीत्वं पुमांसोपि पापतः कामतोपि वा ।
न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः ।
पुंसा सहैव पुन्देहस्थितिः स्याद् वरदानतः ।
तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः ।
सर्वेषामपि जीवानामन्त्यदेहो यथा निजः। मुक्तौ च निजभावः स्यात् कर्मभोगान्ततोपि वा'' इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ।
॥ ३२-३४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोध्यायः ॥