B.G 8.10
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥॥ १० ॥
Gīta Bhāshya 8.10
वायुजयादियोगयुक्तानां मृतिकालकर्तव्यमाह विशेषतः - प्रयाणकाल इति । वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यसम्पूर्णानां भवत्येव मुक्ति; । तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथञ्चिद् भवतीति विशेषः । उक्तं च भागवते- 'पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसा त्वापुरकुण्ठधिष्ण्यम् ।
तथा परे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्नतु सेवया ते ।'' इति ॥ 'ये तु तद्भाविता लोक एकान्तित्वं समाश्रिताः ।
एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युत'' ॥ इति च मोक्षधर्मे ।
'सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः ।
नियमेन तथापीरजयादियुतयोगिनाम् ।
वश्यत्वान्मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम्'' इति च व्यासयोगे ।
॥१० ॥
Gīta Tātparya 8.10
तमसः परस्तात् अप्राकृतदेहम् ॥ ९, १० ॥