B.G 7.13
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥
Gīta Bhāshya 7.13
तर्हि कथमेव न ज्ञायसे इत्यत आह - त्रिभिः इति।
तादात्म्यार्थे मयट्। तच्चोक्तम्-
"तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा।"
इति।
न हि गुणकार्यभूता माया। 'गुणमयी' इति च वक्ष्यति। सिद्धं च कार्यस्यापि तादात्म्यम्-
"तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः।"
इति व्यासयोगे।
भावैः पदार्थैः। सर्वे भावा दृश्यमाना गुणमयाः एते इति दर्शयति - 'एभिः' इति। ज्ञानिव्यावृत्त्यर्थम् - 'इदम्' इति। गुणमयदेहादिकं दृष्ट्वा ईश्वरदेहोऽपि तादृशः इति मायामोहितः इत्यर्थः। जगाद च व्यासयोगे -
"गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः। देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम्॥"
इति।
एभ्यः गुणमयेभ्यः। 'गुणेभ्यः परम्' इति वक्ष्यमाणत्वात्। 'केवलो निर्गुणश्च' इत्यादिश्रुतिभ्यश्च। 'त्रैगुण्यवर्जितम्' इति चोक्तम् ॥१३॥