Brahmasūtra Aṇu-Bhāṣya (ब्रह्मसूत्राणुभाष्यम्)
Chapter Two (द्वितीयोऽध्यायः॥)
श्रौतस्मृतिविरुद्धत्वात्‌ स्मृतयो न गुणान् हरेः। निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम्‌ ॥१॥
देवतावचनादापो वदन्तीत्यादिकं वचः । नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् ॥२॥
असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम्‌। वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः ॥३॥
स्वातन्त्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः। भ्रान्तिमूलतया सर्वसमयानामयुक्तितः॥४॥
न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत्‌। आकाशादिसमस्तं च तज्जं तेनैव लीयते ॥५॥
सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा। तदाभासो हरिः सर्वरूपेष्वपि समः सदा ॥६॥
मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवाः। मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ॥७॥
सर्वदोषोज्झितः तस्माद्‌ भगवान्‌ पुरुषोत्तमः। उक्ता गुणाश्चाविरुद्धास्तस्य वेदेन सर्वशः ॥८॥
॥इति द्वितीयोऽध्यायः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.