Tattvavivēkaḥ (तत्त्वविवेकः)
तत्त्वविवेकः
स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् । स्वतन्त्रो भगवान् विष्णुः निर्दोषाखिलसद्गुणः ॥१॥
द्विविधं परतन्त्रं च भावोऽभाव इतीरितः । पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥२॥
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् । चेतनाचेतनश्चेति भावश्च द्विविधः स्मृतः ॥३॥
नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः । द्विधैव श्रीर्नित्यमुक्ता सृतियुक्च द्विधा मतः ॥४॥
मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् । मुक्ताः शतगुणाः प्रोक्ताः रमा तेभ्योऽखिलैर्गुणैः ॥५॥
नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः । अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥६॥
मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः । नीचा नित्यतमोयोग्या द्विधैवाचेतनं मतम् ॥७॥
नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा । भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम् ॥८॥
एषां विकारोऽनित्यः स्यान्नित्या एव हि चेतनाः । गुणक्रियाजातिपूर्वा धर्मा सर्वेऽपि वस्तुनः ॥९॥
रूपमेव द्विधं तच्च यावद्वस्तु च खण्डितम् । खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत् ॥१०॥
खण्डितं रूपमेवात्र विकारोऽपि विकारिणः । कार्यकारणयोश्चैव तथैव गुणतद्वतोः ॥११॥
क्रियाक्रियावतोस्तद्वत् तथा जातिविशेषयोः । विशिष्टशुद्धयोश्चैव तथैवांशांशिनोरपि ॥१२॥
य एतत्परतन्त्रं तु सर्वमेव हरेः सदा । वशमित्येव जानाति संसारात् मुच्यते हि सः ॥१३॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वविवेकः ॥