Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 03.08
अन्नं न निन्द्यात्। तद् व्रतम्। प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या ॥८॥
Taittirīya Bhāshya 03.08
"चक्षुः स चष्टे यद् विष्णुः श्रोत्रं श्रोतृत्वतो विभुः। वाक् च वक्तृत्वतो नित्यं मनो मन्तृत्वतस्तथा॥
तपो ज्ञानस्वरूपत्वाद् विज्ञानं तु विवेचनात्। ज्ञानानुसन्धानरूपतपसा तं जनार्दनम्॥
क्रमाद् भृगुर्व्यजानात् तमन्नादिबहुरूपिणम्। एवं विजानंस्तं विष्णुं तस्मिंस्तु प्रतितिष्ठति॥
मुक्तो भूत्वाऽन्नवांश्च स्यादन्नादश्च सदैव तु। अन्ननामा तु भगवान् विद्वान् तमुपजीवति॥ तद्वांश्च तेन गुप्तत्वाद् ... ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2026, Incredible Wisdom.
All rights reserved.