Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.12
तस्माद्वा एतस्मात् विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा॥
तदप्येष श्लोको भवति। असन्नेव स भवति। असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य ॥१२॥
Taittirīya Bhāshya 02.12
तस्मिन्नानन्दरूपोऽसौ स्थितो नारायणस्सदा। शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम्॥
मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात्। मोदप्रमोदनामानावानन्दस्त्वाततत्वतः॥
मध्यमानन्दसंस्थं च ब्रह्मसृष्ट्या तु बृंहयेत्। पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा। अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः॥
देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः। बहिःस्थो देहवद्विष्णुरन्तस्थो देहिवत् स्मृतः॥ अन्तर्व्याप्ति विशेषेण न त्वशक्तत्वतो बहिः।
सर्वेऽपि पुरुषाकाराः उत्तरात् पूर्वसम्भवाः॥ उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः। अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता। आनन्दश्च यतः पूर्णस्ततोऽन्नादिमयाः स्मृताः । अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि॥
नामभेदस्ततस्तूक्तः सर्वनामवतामपि। पञ्चरूपं च तद् ब्रह्म जीवादन्यन्न विद्यते॥ इति ये तु विजानन्ति तेऽसन्तस्तमआलयाः। जीवादन्यत् परं ब्रह्म पञ्चरूपं च ये विदुः॥ सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.