Mundaka 6.07
गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥७॥
गताः मुक्ताः। प्राणादिपञ्चदशकलारूपा देवताः अन्ये च प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रति प्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति।
Bhāshya 6.07
अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा। एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः॥
कुतोऽभूतस्य भवनं स्वरूपस्यैक्यमेव हि। अतो नदीनां जीवानां विरुद्धानां नृणामपि। अब्धिना हरिणा चैव तथैव च नरान्तरैः॥ एकीभावस्तु संश्लेषो विरोधस्य च वर्जनम्। स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम्॥ हरेरपि स्वरूपाणामेकीभावो यदोच्यते। संश्लेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः॥
इति च।
प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कलाः क्रमात्। कलानां देवता अन्या देवतानां नरा अपि॥ तस्मात् सर्वेषु मुक्तेषु नरेष्वपि नियामकाः। तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखिलाः॥
इति मुक्तिविवेके॥
कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः। कलाभ्यः पृथगुक्तं तत् पुष्करः कर्म चोच्यते॥
इति च।
अन्यथा गता भविष्यन्तीत्यध्याहारो दोषः। न च मूलरूपाणि प्रतिदेवता इत्युच्यन्ते देवानाम्। प्रतिरूपशब्दवद्धि प्रतिदेवताशब्दः।
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र
"स प्राणमसृजत" इत्यादेश्च पुरुषो भगवान् ॥७॥