Māyāvādakhaṇḍanam (मायावादखण्डनम्)
Māyāvādakhaṇḍanam (मायावादखण्डनम्)
मायावादखण्डनम्
नरसिंहोखिलाज्ञानमतध्वान्तदिवाकरः । जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ॥
‘विमतम् अनारम्भणीयम् अन्यथाप्रतिपादकत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नम्।’
न हि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे । अद्वैतहानेः स्वरूपातिरेके । अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता । निर्विशेषत्वादात्मनो नानधिगतो विशेषः । सिद्धत्वाद् स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम् ।
‘अनधिगतार्थगन्तृ प्रमाणम्’
इति च तन्मतम् ।
अज्ञानासम्भवादेव तन्मतम् अखिलमपाकृतम् । मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात् । सत्यता च भेदस्य । एवमेव प्रयोजनमपि निरस्तम् । स्वरूपत्वात् मोक्षस्य पूर्वमेव सिद्धत्वात् । अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारताऽपि निरस्ता । विषयप्रयोजनाभावादेव अधिकारी च । तदभावादेव सम्बन्धोऽपि ।
‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥’ (भ.गी.१५.१६)
‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥’ (भ.गी.१५.१७)
‘यस्माद् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥’ (भ.गी.१५.१८)
‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥’ (भ.गी.१५.१९)
‘इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥’ (भ.गी.१५.२०)
‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥’(कठ.१.३.१०)
‘महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥’(कठ.१.३.१०)
‘भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’(ब्र.सू.३.३.५९) ।
इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् । इति सर्वज्ञमुनिना मायावादतमोऽखिलम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥(म.भा.१.१.३४)
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं मायावादखण्डनम् ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.