Māndukyōpanishad Bhāshya
Māndukya 3.01, 02, and 03
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति। जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा। आप्तेरादिमत्त्वाद् वा। आप्नोति ह वै सर्वान् कामान् आदिश्च भवति। य एवं वेद ॥१॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा। उत्कर्षादुभयत्वात् वा। उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति। य एवं वेद ॥२॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा। मितेरपीतेर्वा। मिनोति ह वा इदं सर्वमपीतिश्च भवति। य एवं वेद ॥३॥
Bhāshya 3.01, 02, and 03
अधिकं सर्वतः अविनाशि च इति अध्यक्षरम्। अधिका एव मात्रा अंशा यस्य तदधिमात्रम्। अ इत्येऽनन अभिधानेन आक्रियते इति अकारः। तत्र पूर्वोक्तो वैश्वानरः प्रथमा मात्रेत्यादि अनुवादः। अकार इत्यादिकं विधेयम्।
प्राज्ञः तैजसश्च आदिरस्येति आदिमान्। सुप्तेरुत्थाने प्राज्ञाद् विभक्तो भवति विश्वः। स्वप्नादुत्थाने तैजसात्। आदिश्चास्य उपासकस्य भवति॥१॥
शरीराभिमानात् उत्थाप्य कर्षतीति उत्कर्षः। निद्रा विषयानुभवश्चानेन क्रियते इति उभयत्वम्। समानः सर्वेषां मध्यस्थो भवति ॥२॥
मितेः अन्तर्गमनात्।
"अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः। येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो विभोः। अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः। श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः॥
आद्यस्तदंशो व्याप्तिः स्याद् विषयानापयेद् यतः। जीवस्य तु यतः प्राज्ञात् तैजसाद् वा समुत्थितः। अविभागोऽपि भगवानादिमांस्तेन कीर्तितः।
तस्मादुत्पद्यते मुक्तः सज्ज्ञानानन्दलक्षणः। आप्नोति विषयान् सर्वान् निद्राया विषयस्य च। उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः॥
देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले। उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम्॥
आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम्। मध्यस्थः स भवेत् स्नेहाद् दोषाभावाच्च सर्वशः॥
स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता। जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः॥
प्राज्ञो मानमपीतिश्च तज्ज्ञोऽप्येवं विमुक्तिगः। व्याप्त्याऽन्तर्गमयेत् सर्वं दुःखाद्यं तु विलापयेत्॥
अणूनामपि जीवानां प्रकाशो व्यापको भवेत्। अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम्। अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत्॥"
इति ब्रह्मतर्के ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.