Māndukya 1.13 and 14
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः। स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥१३॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः। कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥१४॥
Bhāshya 1.13 and 14
"तां सृष्टिं बहुधा प्राहुः ज्ञानिनोऽज्ञानिनस्तथा। विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम्॥
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः। स्वप्नप्रमायासरूपां च केचिदज्ञा जना विदुः॥
अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत्। उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः॥
पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः। सर्वदोषव्यतीतस्य विकारः कुत इष्यते॥
तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम्। यथार्थमेव सम्भूतमिति वेदवचोऽखिलम्॥
केचित् कालत एवैतां सृष्टिमाहुरकोविदाः। केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे॥
विमूढाः सर्व एवैते यतो नारायणः परः। सर्वकर्ता सर्वशक्तिरेक एव न चापरः॥ प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः॥"