Māndukyōpanishad Bhāshya
Māndukya 1.02
सर्वं ह्येतद् ब्रह्म। अयमात्मा ब्रह्म। सोऽयमात्मा चतुष्पात् ॥२॥
Bhāshya 1.02
"परमं यो महद्ब्रह्म", "तदेव ब्रह्म परमं कवीनाम्", "पूर्णमदः पूर्णमिदम्"
इत्यादिषु प्रसिद्धं च ब्रह्मणः पूर्णत्वमित्याह – सर्वं ह्येतत् ब्रह्मेति॥
श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते। जीवानां अस्वातन्त्र्यदर्शनात् सोऽपि स एवेति दर्शयति – अयमात्मा ब्रह्मेति।
"पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन। विना च प्रकृतिं नान्यत् कालातीतं परात्मनः॥
कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः। अभिमानात्तु जीवानां न कालातीतता भवेत्॥
मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः। पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः॥
सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा। आदानादनकर्तृत्वादात्मा तेषामगोचरः॥ इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्॥"
इति हरिवंशेषु ॥२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.