1.1.19
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद् विद्यामनुशिष्टः त्वयाहं वराणामेष वृतस्तृतीयः ॥१९॥
Bhāṣya 1.1.19
प्रेते मुक्ते मनुष्ये नियामकत्वेन भगवानस्तीति ज्ञानिनो वदन्ति। नास्तीत्यज्ञाः। तस्य नियामकस्य स्वरूपं यथावदहं विद्याम्।
"अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः। देहाद्विमुच्यमानस्य किमत्र परिशिष्यते॥"
एतद्वै तत् इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यते इति सिद्धम्। देहाद् विशेषेण मोचनं नाम मुक्तिरेव।
मुक्तेरपि मरणात्मकत्वात् मरणमित्यपि भवति। स्थूल देह त्यागस्तु विस्रंसमानस्येत्यनेनैव उक्तो भवति॥
"अग्निस्थं परमात्मानं सामान्याज्जानतोऽपि तु। अजानतस्तु मुक्तौ च जीवान्तःस्थितमीश्वरम्॥
नियामकं च जीवानां मुक्तानामपि सर्वदा। गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा॥
नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद्यमः। तस्य गोप्यत्वविज्ञप्त्यै तथाप्यग्निस्थवेदनात्॥ सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत्पृथगीरितम्॥"
इति तत्त्वसारे।
"स्थाणुमन्येऽनुसयन्ति यथाकर्म यथाश्रुतम्" इत्युक्त्वा "य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः" इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम्।
मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः।
"गुह्यं तत्परमं ब्रह्म म्रियमाणं शरीरिणम्। सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि॥"
इति ब्रह्माण्डे।