Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
1.3.01 and 02
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥१॥
यः सेतुरीजानानां अक्षरं ब्रह्म तत्परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥२॥
Bhāṣya 1.3.01 and 02
आत्मान्तरात्मेति विभुः एक एव द्विधा स्थितः। स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके॥ शुभान् पिबति भोगान् सः छायेव विदुषां प्रभुः। आतपः पापिनां नित्यं मर्यादा विष्णुयाजिनाम्॥ संसारस्य च पारस्थः स विष्णुर्द्विस्वरूपकः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.