Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
1.1.14-18
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा। स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनराह तुष्टः ॥१४॥
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददानि भूयः। तवैव नाम्ना भविताऽयमग्निः शृङ्कां चेमामनेकरूपां गृहाण ॥१५॥
त्रिनाचिकेतः त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू। ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥१६॥
त्रिनाचिकेतः त्रयमेतद्विदित्वा य एवं विद्वान् चिनुते नाचिकेतम्। स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१७॥
एष तेऽग्निर्नाचिकेतः स्वर्ग्योऽयमवृणीथाः द्वितीयेन वरेण। एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥१८॥
Bhāṣya 1.1.14-18
स एव सर्वलोकादिः तं ज्ञात्वा मुच्यते ध्रुवम्॥
इति च॥
"या इष्टका या इष्टकादेवताः। इष्टकादेवतां विष्णुं षष्ठ्युत्तरशतत्रिकम्। यथावदेव विज्ञाय मुच्यते कर्मबन्धनात्॥"
इति च॥
त्रिभिरेत्य सन्धिम् वेदैरविरुद्धः वेदोक्तप्रकारेण भगवत्तत्वादिकं जानन्नित्यर्थः। त्रिकर्मकृत् यज्ञदानतपःकर्ता।
"यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत्।"
इति वचनात्।
त्रयमेतत् "या इष्टका" इत्यादि।
"ब्रह्मेति वेद उद्दिष्टः तस्मात् व्यक्तो यतो हरिः। ब्रह्मजस्तेन कथितः स एव ज्ञोऽखिलज्ञतः॥"
इति नामनिरुक्तऔ।
अनेकरूपां सुवर्णमयीम्।
"बहुरूपं च पुरटं कार्तस्वरमितीर्यते॥"
इति वचनात्।
"यमोऽनुवादसन्तुष्टो वह्नेः तन्नामतामपि। शृङ्कां स्वर्णमयीं चैव कण्ठमालां अदाद्विभुः॥"
इति पाद्मे।
लोकादिः प्रतिष्ठा ब्रह्मजज्ञो अनन्तलोकाप्तिः इत्यादि विशेषणैश्च भगवानेव।
"स्तोममहदुरुगायं प्रतिष्ठा"
इति परामर्शाच्च भगवतो ह्युरगायनाम प्रसिद्धम्। गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम्। न च अग्निपरिज्ञानमात्रेण अनन्तलोकाप्तिः भगवज्ज्ञानं विना।
"तद्वा एतदक्षरं गार्गि अविदित्वा अस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तवदेवास्य तद्भवति॥"
इत्यादिश्रुतेः।
न च मुख्ये सति अमुख्यार्थो युज्यते॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.