Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 17, 18 and 19(*)
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७ ॥ वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ॥ १८ ॥ ॐ क्रतो स्मर कृतं स्मर ॐ क्रतो स्मर कृतं स्मर ॥ १९ ॥
[]
Īśā.Bhāshya 17
...अहं चासावहेयतः । अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥ स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥ इति ब्रह्माण्डे । सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोऽसौशब्दः प्राणे स्थित इति ॥ यस्मिन्नयं स्थितः सोऽप्यमृतः किमु परः । अः ब्रह्मैव निलयनं यस्य वायोः सोऽनिलम् । अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः । मुख्यामृतः स्वयं रामः परमात्मा सनातनः ॥ इति रामसंहितायाम् ॥ भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः । अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते ॥ इति ब्रह्मतर्के ॥ १७-१९ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.