B.G 18.62-65
तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२॥
इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥६३॥
सर्वगुह्यतमं भूयः शृृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥६४॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥६५॥
Gīta Tātparya 18.62-65
"निश्चितार्थः स तु ज्ञेयः यत्रात्मैव परोक्षतः। उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते॥"
इति शब्दनिर्णये।
"मन्मनाः" इत्युपसंहाराच्च॥ शाश्वतं स्थानं वैकुण्ठादि-
"श्रीरेव लोकरूपेण विष्णोः तिष्ठति सर्वदा। अतो हि वैष्णवा लोका नित्यास्ते चेतना अपि॥"
इत्याग्नेये।
"न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च"
इत्याद्युक्तं च॥
तत्त्वसारकथनं "द्वाविमौ पुरुषौ" इत्यत्रैवोपसंहृतम्। तत्त्वप्रशंसार्थमेव तद्बुद्धिप्रशंसा कृता। अत्र तु साधनसारोपसंहारः सर्वगुह्यतममिति। "मन्मनाः" इत्यादेः पूर्वमेवोक्तत्वात् भूय इति। अर्थतस्तु अत्रापि विष्ण्वाधिक्यमेव उक्तं भवति॥