B.G 17.05 and 06
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥५॥
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तः शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥६॥
Gīta Tātparya 17.05 and 06
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। डम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥
अकृशानपि लक्ष्म्यादीन् देवान् विष्णुपरायणान्। विष्णुं च सर्वदेहस्थान् कृशत्वेन विजानते॥
तेषामल्पगुणत्वेन कल्पनात् ते तमो ध्रुवम्। यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः॥
अन्नैश्चैवाथ यज्ञाद्यैः प्रायो ज्ञेया इमे नराः। सात्त्विकाः सात्त्विकान् कुर्युः यस्मादन्ये तथेतरान्॥
ओन्तत्सदिति यद्विष्णोर्नामत्रयमुदाहृतम्। प्रसिद्धं वैदिकं तस्मात् कर्म सद्विषयं हि सत्॥
तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते। विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम्॥
विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः। तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः॥
अनोङ्कृतं हि आसुरं स्याद्यत्तस्मादोङ्कृतं त्वपि। ओङ्कारार्थहरेः सम्यगज्ञानादासुरं भवेत्॥
फलं त्वनभिसन्धाय तद्ब्रह्म स्यान्ममास्पदम्। इति यत् क्रियते कर्म तन्नामातो जनार्दनः। अभिसन्धितं हि तत्प्रोक्तं ततं वा स्वगुणैः सदा॥
इत्यादि च ।
शास्त्रविहितमपि भगवत् श्रद्धाहीनमसदेवेति वक्ष्यति 'अश्रद्धया हुतम्' इति। भगवत् श्रद्धारहितत्वादेव च अशास्त्रविहितं भवति।
"विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते॥"
इति पैङ्गिश्रुतिः॥