B.G 14.19
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१९॥
Gīta Tātparya 14.11
एतेभ्यः सत्त्वादिगुणेभ्यः अन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः। अन्यथा पशुसमः। न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम्, किन्तु गुणेभ्यः उत्तमत्वेन च। कथं स एव ना? यस्मात् 'मद्भावं सोऽधिगच्छति'।
"महालक्ष्मीरिति परा भार्या नारायणस्य या। प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत्॥
तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः। सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्रभा॥
रजो रञ्जनकर्तृत्वात् भूः सा सृष्टिकरी यतः। यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते॥
जीवानां ग्लपनाद् दुर्गा तम इत्येव कीर्तिता। एताभिः तिसृभिः र्जीवाः सर्वे बद्धा अमुक्तिगाः॥
सर्वान् बध्नन्ति सर्वाश्च तथापि तु विशेषतः। श्रीर्देवबन्धिका नॄणां भूर्दैत्यानां तथा परा॥
एताभ्योऽन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते। सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः॥
इति यावद्विजानाति तावत्तं नृपशुं विदुः। तस्मादाभ्योऽधिकगुणो विष्णुर्ज्ञेयः सदैव च॥"
इति महाविष्णुपुराणे।
रजसस्तु फलं दुःखमित्यत्र दुःखमिति दुःखमिश्रं सुखम्।
"दुखं दुरिति सम्प्रोक्तं खं नाम सुखमुच्यते।"
इति शब्दनिर्णये।
"कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम्। अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः।"
इति स्कान्दे ॥१९॥