B.G 12.01
अर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१॥
Gīta Tātparya 12.01
साधननिर्णयोऽत्र।
"श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति। श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ॥"
"उपासिता मुक्तिदा सद्य एव ह्यस्येशाना जगतो विष्णुपत्नी। या श्रीर्लक्ष्मीरौपला चाम्बिकेति ह्रीश्चेत्युक्ता संविदग्र्या सुविद्या॥"
इत्यादिश्रुतिभ्यः।
"श्रीः सुतुष्टा हरेः तोषं गमयेत् क्षिप्रमेव तु। अतुष्टा तदुतुष्टिं च तस्माद् ध्येयैव सा सदा॥ अव्यक्तं प्रकृतिं प्राहुः कूटस्थं चाक्षरं च ताम्। प्रधानमिति च प्राहुर्महापुरुष इत्यपि। तां ब्रह्म महदित्याहुः परं जीवं परां चितिम्। तस्यास्तु परमो विष्णुः यो ब्रह्म परमं महत्॥"
इति ब्रह्माण्डवचनाच्च अव्यक्तोपासनात् मोक्षाशङ्कया पृच्छति।
"कूटस्थोक्षर उच्यते" इत्युत्तरवचनात् "कूटस्थमचलम्" इत्यत्राप्युक्तेः अव्यक्तशब्दः चित्प्रकृतिवाची। अन्यथा "ये त्वां पर्युपासते", "ये चाप्यक्षरम्", "तेषां के योग वित्तमाः" - इति भेदेन प्रश्नानुपपत्तिः। "परं ब्रह्म परं धाम पवित्रं परमं भवान्" इति तेनैव उक्तत्वात्।
ये तु "ते मे युक्ततमा मताः", "मय्येव मन आधत्स्व" - इत्यादौ भगवता उक्तेपि अव्यक्तोपासकानामाधिक्यं वदन्ति ते तु अपलापकत्वात् अतीव साहसिका इति सुशोच्या एव ॥१॥