Bhagavad Gīta Bhāshya and Tātparya
B.G 10.39 and 40
यच्चापि सर्वभूतानां बीजं तदहमर्जुन। न तदस्ति विना यत्स्यात् मया भूतं चराचरम् ॥३९॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप। एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥
Gīta Tātparya 10.40
"येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु। विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु॥ ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात्। आधिक्यहेतुः भगवान् सामस्थः सामनामकः। आधिक्यहेतुः वेदेभ्यः तथाऽश्वत्थस्थितो हरिः। उत्कर्षहेतुः वृक्षेभ्यो य एवाश्वत्थनामकः॥"
इत्यादि विभूतितत्त्वे।
"केषु केषु च भावेषु" इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योऽन्यदेव विभूतिरूपम्।
"द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम्। कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम्॥ भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम्। स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम्॥"
इत्यादि च।
"आत्माऽततगुणत्वेन रवज्ञेयो यतो रविः। उदवन्मेघचलनात् मरीचिः साम साम्यतः॥ सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः। वासवर्ती वासवोऽसौ चेतोनेता तु चेतना॥"
पालकैर्वननीयत्वात् पवनो बोधनान्मनः। पावकः शोधनान्मेरुरीरो यन्माऽस्य सागरः॥ सारस्य गरणात् स्कन्दो जगतः स्कन्दनात् भृगुः। भर्जनात् जपयज्ञश्च जातपो याज्य एव च॥
अश्वाकारस्थितोऽश्वत्थ ऐरा श्रीश्च तदाश्रयः। ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः॥ ह्रीश्रीसमाश्रयत्वाच्च हिमालय इतीरितः। वर्ज्यत्वादरिभिः वज्रो वैनतेयो नतास्पदः। वासुकिः वाससुखदः कन्दर्पः सुखभेदपः॥
अर्यमा ज्ञेयमातृत्वात् काल आकालनादपि। वरुणो वरणाद् द्वन्द्वो द्विरूपोऽन्तर्बहिर्यतः॥
मकरो मानकर्तृत्वाद् यमः संयमनाद् विभुः। प्रह्लादः स महानन्दो मृगेन्द्रो मृगयत्पतिः॥
जाह्नवी जहतां स्थानमध्यात्मं चात्मनां पतिः। विद्या ज्ञप्तिस्वरूपत्वाद् वादो वाच्यत्वतो हरिः॥
कीर्त्यो वक्ताऽश्रयः कीर्तिर्वाक् श्रीरिति च नामतः। स्मरणीयः स्मृतिः मेधा क्षमारूपः तथेर्यते॥
द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान्। सत्त्वं साधुगुणत्वाच्च दण्डनाद् दण्ड उच्यते॥
बृहत्सारोप्यमेयश्च बृहत्सामोशनोशतेः। शुभाशुभज्ञानकरः कुसुमाकर ईरितः॥
ज्ञानं ज्ञानात्मतो मौनं मुनीड्यो नीतिरानयन्। मार्गाणामन्तगत्वात्तु मार्गशीर्षः प्रकीर्तितः॥
सुखं पिबन् लीलयैव कपिलो व्यास एव च। विशिष्टत्वाद् विष्णुनामा विशिष्टप्राणसौख्यतः॥
एवं नानागुणैः विष्णुः नानानामभिरीरितः। नानाप्राण्यादिसंस्थश्च विभूतिरिति शब्दितः॥
शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित्। शर्वादिषु सजातीयश्रैष्ठ्यदत्वेन संस्थितः॥
शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः। देवेष्वभ्यधिको ब्रह्मा यतो विष्णोरनन्तरः॥
कवित्वादिगुणेष्वेवं यत्समो नास्ति कश्चन। तथा भीमश्च पार्थेषु ज्ञानं यज्ञेषु चोत्तमम्॥ सुदर्शनं चायुधेषु वेदेषु ऋग्वेद उच्यते॥
इत्यादि विभूतितत्त्वे।
क्वचित् साम्न आधिक्यं अभिमान्यपेक्षया -
"ऋचः श्रीः गीः उमाद्याश्च साम्नः प्राणशिवादयः"
इत्याद्यभिमानिभेदात्। तत्रापि यथायोग्यम् ॥२१-४०॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.