Bhagavad Gīta Bhāshya and Tātparya
B.G 7.21-23
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान् ॥२२॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥
Gīta Tātparya 7.21-23
...अचेतनया तन्मेयत्वात्तु मायया। लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः॥ ये तु विष्णुं प्रपद्यन्ते ते मायां तां तरन्ति हि। लक्ष्मीः सा जडमाया या देवता ते उभे अपि॥
विष्णोर्वशे ततोऽनन्यभक्त्या तं शरणं व्रजेत्। यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत्॥ अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत्। अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु॥
कुर्यात् भक्तिं नान्यथा तु तद्वशा एव ते यतः। एवं जानन् तमाप्नोति नान्यथा तु कथञ्चन॥
पूर्णं वस्तु यतो ह्येको वासुदेवो न चापरः। एवंविद्दुर्लभो लोके यत्सर्वे मिश्रयाजिनः॥
विष्णुं तत्परमज्ञात्वा रमाब्रह्महरादिकान्। यजन्नपि तमो घोरं नित्युदुःखं प्रयाति हि॥
अज्ञानां तु कुले जातो यावद्विष्णोः समर्चनम्। विष्णुतत्त्वं च जानीयात् तावत् सेवा पृथक् कृता॥
विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्नतु। परिवारताम् ऋते कुर्यादन्यदेवार्चनं क्वचित्॥ अजानता कृतं त्यक्तं न दोषाय भविष्यति। जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु॥ क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु। यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन॥"
इत्यादि च।
'मत्त एवेति तान् विद्धि' इत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते। 'मयि सर्वमिदं प्रोतम्' इति भेदेनैव उपक्रमाच्च। आप्नोति विष्णुमित्येव आत्म शब्दो ज्ञानिनि। 'यच्चाप्नोति यदादत्ते' इत्यादेः। 'आस्थितः स हि', 'मां प्रपद्यते' इत्यादि वाक्यशेषाच्च।
बहूनां जन्मनामन्ते ज्ञानवान् भवति। ततो मां प्रपद्यते। वासुदेवः सर्वमिति पूर्णमिति जानन्। 'प्रपद्यन्तेऽन्यदेवताः' इत्यादि वाक्यशेषे भेददर्शनाच्च।
"देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि"
इति च।
"ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः। याति देवांन् तदज्ञात्वा तम एव प्रपद्यते। तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम्। न निश्चिन्वन्ति जायन्ते संसारे ते पुनः पुनः॥"
इति च ॥२३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.