B.G 7.07
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
Gīta Tātparya 7.07
मत्तोऽन्यत् परतरं नास्ति। परतरस्त्वहमेवेत्यर्थः। अन्यथा अन्यदिति व्यर्थम्।
"अवरा दुःखसम्बन्धात् जीवा एव प्रकीर्तिताः। नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु॥ दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते। अनन्याधीनरूपत्वादसमाधिकसौख्यतः॥
तत्तन्त्रत्वाच्च सर्वस्य स विष्णुः परतमो मतः। अभावादन्तराऽन्यस्य त्विहैकार्थौ तरप्तमौ॥ यस्याः सम्बन्धयोग्यत्वात् जीवा अप्यवरा मताः। तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः॥
अथावरतरा ये तु विमुखाश्चेतना हरेः। नित्यदुःखैकयोग्यत्वात् न ह्येतत् स्यादचेतने॥ अतः परतरं विष्णुं यो वेत्ति स विमुच्यते। मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात्॥
तत्रापि तारतम्यं स्यात् तेषु ब्रह्माऽधिको मतः। विष्णोराधिक्यसंवित्तिः सर्वस्मात् ज्ञानमुच्यते॥ एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम्। एतच्च तारतम्येन वर्तते केशवादिषु॥"
(- states the testimonial.)
मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनोऽपरे ॥७॥