Bhagavad Gīta Bhāshya and Tātparya
B.G 6.46 and 6.47
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥४७॥
Gīta Tātparya 6.47
"तपसश्चैव यज्ञादेः ध्यानमेव विशिष्ठते। अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ज्ञानमप्यतः॥ तत्रापि मय्यभक्तस्य नान्यद्ध्यानं प्रयोजकम्। अन्यसामान्यविद्यो मे यश्चान्यं नेति पश्यति॥
अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः। मद्भक्तोऽपि हि कार्यार्थं यो ध्यायेदन्य देवताम्। परिवारतामृते तस्मात् केवलं मदुपासकः। वरोऽन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः॥"
इति दत्तात्रेयवचनम् ॥४६,४७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये षष्ठोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे समाधियोगप्रपञ्चनं नाम षष्ठोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.