Bhagavad Gīta Bhāshya and Tātparya
B.G 5.14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४॥
Gīta Tātparya 5.14
यथा पितॄदत्तं पालकत्वं राजपुत्राणाम् एवं परमात्मदत्तं क्रियास्वातन्त्र्यलक्षणं कर्तृत्वम्। क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीति आशङ्कां परिहरति - न कर्तृत्वमित्यादिना॥
क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजति ईश्वरः इत्यर्थः। अन्यथा लोकस्य इति विशेषणं व्यर्थम्।
जनपदे निवसतां तद्वित्तभोजिनामपि आधिपत्यादानात् न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत् कर्मफलादिसंयोगिनाऽमपि तत्स्वातन्त्र्यादानात् न सृजतीति युज्यते।
स्वयमेव भवति भावयति चेति स्वभावो भगवान्। स्वभावत्वात् स्वयमेव कर्तृत्वादिषु प्रवर्तते।
"स्वातन्त्र्यात् भगवान् विष्णुः स्वभाव इति कीर्तितः। तत्स्वातन्त्र्यं कदाऽप्येषः नान्यस्य सृजति क्वचित्॥
स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोऽपि न। अज्ञानावृतबुद्धित्वादीदृशं तं न जानते॥"
इति महावाराहे।
"अहं सर्वस्य प्रभवः।"
"तपाम्यहमहं वर्षं निगृह्णामि।"
"परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च।"
"न ऋते त्वत्क्रियते किञ्चिनारे।"
"देवस्यैष स्वभावोऽयम्।"
"लोकवत्तु लीलाकैवल्यम्।"
इत्यादेः न अस्य अस्वाभाविकं कर्तृत्वम् अकर्तृत्वं वा। विपरीतप्रमाणाभावाच्च।
अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः। न च सर्वविशेषराहित्यवादिनां शून्यवादात् कश्चित् विशेषः। न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति। वाच्यत्व लक्ष्यत्वास्तित्वादीनामपि विशेषत्वात्। अन्यथा अस्ति ब्रह्मेत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः।
व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव। अन्यथा वैयर्थ्यमेव स्यात्।
स्वप्रकाशत्वं च न अमानं सिद्ध्यति। स्वयम् प्रकाशत्वं च ततोऽतिरिक्तं चेत् विशेषाङ्गीकारः। न चेत् तदेव प्रमाणगोचरम् तत्प्रमाणाभावे। परप्रकाशत्व मात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात्। अर्थतः सिद्धिरिपि अर्थापत्तितः सिद्धिः तत्प्रमाणतः सिद्धिर्वा उभयथापि प्रमेयत्वमेव स्यात्।
स्वप्रकाश शब्देन स्वमितत्वानङ्गीकारात् परमितत्वानङ्गीकाराच्च असिद्धिरेव। प्रकाश इत्युक्तेऽपि स्वमन्यं वा किञ्चित् प्रकाश्यं विना न दुष्ट एव भोजनादिवत्। कर्तृकर्मविरोधश्च अनुभवविरुद्धः। ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम्। अतः शून्यवादात् न कश्चित् विशेषः। अतः अनन्तदोषदुष्टत्वात् उपरम्यते।
हरिः स्वभावतः कर्ता सर्वमन्यत् तदीरितम्। अतः सा कर्तृता तस्य न कदाचित् विनश्यति॥
इति पैङ्गिश्रुतिः।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.