Bhagavad Gīta Tātparya
B.G 4.13
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३॥
Gīta Tātparya 4.13
"सत्वसत्वाधिकरजोरजोभिस्तमसा तथा। वर्णा विभक्ताश्चत्वारः सात्विका एव वैष्णवा॥" ]
इति च।
कर्मविभागं "शमो दम" इत्यादिना वक्ष्यति।
"वैष्णवाः सात्विका एव तामसा एव चापरे। दौर्लभ्यसुलभत्वेन तेषां वर्णादिभिन्नता॥"
इति च।
"स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते। योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम्। विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम्। आरभ्य हीयतेऽथापि भेदः स्वाभाविकस्ततः॥"
इति नारदीये।
"कर्तापि भगवान् विष्णुरकर्तेति च कथ्यते। तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात् परात्मनः॥"
इति च।
अपिशब्दो गुणसमुच्चयार्थः। कर्ता मे नास्तीत्यपि विद्धीति ॥१३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.