B.G 4.01, 02, and 03
श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥१॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप ॥२॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥
Gīta Tātparya 4.01-03
उक्तयोः ज्ञानकर्मणोरुभयोः विशेषविस्तरात्मकोऽयमध्यायः।
"ब्रह्मरुद्रेन्द्र सूर्याणां यद्दत्तं विष्णुना पुरा। पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात् पाण्डवेषु तत्। तेषामेवावतारेषु सेनामध्येऽर्जुनाय च। प्रादात् गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे॥
यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः। सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः। ज्ञातव्यं चैव कर्तव्यं यथा सर्वैः मुमुक्षुभिः। त्रैतादित्रिषु जातैश्च गीतायां तदुदाहृतम्॥
पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते। तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित्। वेदार्थपूर्वकं ज्ञेयं पञ्चरात्रं यतोऽखिलम्। तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित्॥"
इति ब्रह्मवैवर्ते ॥१-३॥