Bhagavad Gīta Bhāshya and Tātparya
B.G 3.30
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः ॥३०॥
Gīta Tātparya 3.30
"नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम्। तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा॥ तद्भक्तिः तत्फलं मह्यं तत्प्रसादः पुनः पुनः। कर्मन्यासो हरावेवं विष्णोः तृप्तिकरः सदा॥ यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम्। तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु॥ जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम्। पुमान् दोग्धा च गौः दोग्ध्री स्तनो दोग्धेतिवत् क्रमात्॥"
इति ब्रह्मतर्कवचनात्।
ईश्वरजीवप्रकृत्यादीनां कर्तृत्वम् अकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र।
"क्वचित् स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका। क्वचित् प्रकृष्टकर्तृत्वात् भगवान् प्रकृतिर्हरिः॥"
-इति शब्दनिर्णये।
"स्वभावतः त्रिधा जीवाः उत्तमाधममध्यमाः। उत्तमाः तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः॥ अधमा असुराद्याश्च नैषामस्त्यन्यथाभवः। शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति॥ उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः। अपरेन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः॥
पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृता। नैव पूर्तिश्च सर्वेषां नित्यकालहरीच्छया॥ अतोऽनुवर्तते नित्यं संसारोऽयमनादिमान्। अतोऽधमानां जीवानां मिथ्याज्ञानादयोऽखिलाः॥ स्वाभाविका गुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः। तत्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु॥
कार्यते हि अवशः कर्म सर्वैः स्वैः प्राकृतैर्गुणैः। स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना॥ कर्मसु क्रियमाणेषु कर्ताऽहमिति मूढधीः। मन्यते तत्वविद् विष्णोः गुणा इच्छादयस्तु ये॥
स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु। प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित्॥ इति मत्वा न सक्तः स्यात् प्रीतोस्य भवति प्रभुः। स्वभावगुणसम्मूढा ज्ञानादिगुणवत्तरम्॥ स्वातन्त्र्येणैव कर्तारं चाऽत्मानं प्रतिजानते। तान् गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः॥
तेष्वयोग्येषु तत्वज्ञः तत्त्वं नातिप्रकाशयेत्। वदेत् विवादरूपेण नोपदेशात्मना क्वचित्॥ सभ्यरूपेण वा ब्रूयात् पृष्टेऽव्यक्तिकृदेव वा। बुद्धवाऽप्यसौ यतो नित्यं स्वभावानुगचेष्टितः। स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति॥
इत्यादि प्रकाशसंहितायाम् ॥२७-३५॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.