B.G 3.14, 15 and 16
अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिंद्रियारामो मोघं पार्थ स जीवति ॥१६॥
Gīta Tātparya 3.14 to 16
जननात् परसस्यादेः पर्जन्यो मेघसन्ततिः। स यज्ञात् कर्मणः सोपि समस्तं कर्म केशवात्॥
स नित्योऽप्यक्षरततिरूपाद्वाक्यादि्ध गम्यते। वाक्यमुच्चार्यते भूतैः तान्यन्नात् तच्च मेघतः॥
तस्मात् सर्वगतो विष्णुः नित्यं यज्ञे प्रतिष्ठितः। एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। स पापो विश्वहन्तृत्वात् नरके मज्जति ध्रुवम्॥
वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः। वनस्थस्याक्रतुः यज्ञः क्रत्वादिर्ग्रहिणोखिलः॥
शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः। विद्याभयादिदानं च सर्वेषामपि सम्मतम्॥
गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम्। सर्वैः कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः॥
इति नारदीये।
ब्रह्माक्षरशब्दार्थयोः व्यत्यासे तस्मात् सर्वगतं ब्रह्मेति प्रत्यभिज्ञाविरोधः चक्रप्रवेशश्च ॥१४-१६॥