B.G 2.40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥२-४०॥
Gīta Tātparya 2.40
"परारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला। न चान्यधर्माकरणात् दोषवान् विष्णुधर्मकृत्॥"
-इत्याग्नेये।
"स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित्। नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः॥
एनं धर्मं तु देवाद्याः वर्तन्ते सात्त्विका जनाः। एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः। तत्प्रीत्यर्थं विनान्यस्मै नोन्दबिन्दुं न तुण्डुलम्॥
दद्याद् निराशीश्च सदा भवेत् भक्तश्च केशवे। नैतत्समेSधिके वापि कुर्यात् शङ्कामपि क्वचित्॥
जानीयात् तदधीनं च सर्वं तत्तत्त्ववित्सदा। यथाक्रमं तु देवानां तारतम्यविदेव च॥
एष भागवतो मुख्यः त्रेतादिषु विशेषतः। एष धर्मोSतिफलदो विशेषेण पुनः कलौ। एवं भागवतो यस्तु स एव हि विमुच्यते॥
त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम्। तत्रापि विष्णुः ज्ञातव्यः सर्वेभ्योSभ्यधिको गुणैः॥
समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे। त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते॥
पुनः कुर्यात् पुनः स्वर्गं याति यावद्धरेर्वशे। सर्वान् देवान् प्रविज्ञाय तत्कर्मैव सदा भवेत्॥
सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि। स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात्॥
सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात्परम्। क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन्। यदि सर्वाणि नियमात् जन्मभिः बहुभिः शुभैः॥
परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः। नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते॥
वादो विवादः सम्प्रोक्तो वादो वचनमेव च। वेदोक्ते विष्णुमाहात्म्ये विवादात् पठनादपि॥ अथवा निरर्थकात् पाठात् वेदवादी स उच्यते। वेदवादरतो न स्यात् न पाषण्डी न हैतुकी॥
तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः। अनारम्भमनन्तं च नित्यदुःखं सुखोज्झितम्। वव्रं यद्वेदगदितं यत्र यान्त्यसुरादयः॥"
-इति ब्रह्मवैवर्ते ॥४० ॥