Bhagavad Gīta Tātparya
B.G 2.18
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८॥
Gīta Tātparya 2.18
शरीरिणां तु देहहान्यादिना नाशो विद्यते एव। 'येन सर्वमिदं ततम्' इति तस्यैव लक्षणकथनात् न जीवानां देशतः गुणतश्च पू'्णता। अनिच्छया द'हान्यादेरेव दुःखावाप्तिः सिद्धा। तस्मादनाशिनो अप्रमेयस्य विष्णोः पूजार्थं युद्ध्यस्व। तत्प्रसादाधीनत्वाद् दुःखनिवृत्तेः सुखस्य च।
'ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। तेषामहं समुद्धर्ता' (गीता १२-६) इत्यादेः।
जीवपक्षे 'नित्यस्योक्ताः' इत्युक्तत्वात् 'अनाशिनः' इति पुनरुक्तिः। 'अविनाशि, येन सर्वमिदं ततम्' इत्युक्तस्यैव 'अनाशिनोप्रमेयस्य' इति प्रत्यभिज्ञानाच्च।
'इमे देहाः' इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते।
"न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः। न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिताः॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः। सर्वे चतुर्बाहव उन्मिषन्मणि - प्रवेकनिष्काभरणाः सुवर्चसः॥ प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम्। भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः"॥ इति हि भागवते।
चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः। भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च॥ इति परमश्रुतिः।
न च जीवेश्वरैक्यं मुक्तावपि।
'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च'। (गीता, १४-२)
'यो वेद निहितं गुहायां परमे व्योमन्। सोश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’।
'एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्जरन्। एतत्सामगायन्नास्ते'।
'सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः। किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय'।
"ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः"।
"परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाणः। स्त्रीभिर्वा यानैर्वा … । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति।"
"मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि। तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः"॥
भूपा मनुष्यगन्धर्वा देवाः पितर एव च। आजानेयाः कर्मदेवास्तत्त्व(रूपाः)देवाः पुरन्दरः॥ शिवो विरिञ्चिरित्येते क्रमाच्छतगुणोत्तराः । मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः॥ न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन । ततः सहस्रगुणिता श्रीस्ततः परमो हरिः॥ अनन्तगुणितत्वेन तत्समः परमोपि न।
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः। आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे। कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्द्रो परिस्रव॥
इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः।
'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्'। 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति'। 'न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते'। 'अविनाशित्वान्न तु तद्द्वितीयमस्ति । ततोन्यद्विभक्तं यत्पश्येत्'।
'परमं ब्रह्म वेद ब्रह्मैव भवति'। 'तत् त्वमसि' । 'अहं ब्रह्मास्मि'
न च इत्यादिवाक्यविरोधः।
सञ्ज्ञानाशो यदि भवेत्किमुक्त्या नः प्रयोजनम्। मोहं मां प्रापयामास भवानत्रेति चोदितः॥ याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते। भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते॥ न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः॥
वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम्। अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम्॥ तदा घ्राणादिभोगः स्यात्स्वरूपज्ञानशक्तितः। तदात्मानुभवोपि स्यादीश्वरज्ञानमेव च॥ यदान्यं न विजानाति नात्मानं नेश्वरं तथा। पुरुषार्थता कुतस्तु स्यात्तदभावाय को यतेत्॥ तस्मात्स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः। भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा॥
यन्न पश्येत् परो विष्णुः द्वितीयत्वेन स स्वतः। तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः॥ प्रधानपुरुषादन्यत् यत्तस्मात् भिन्नमीश्वरः। विभक्तत्वेन नियतं यस्मात् पश्यति सर्वदा। पश्यन्नेव यतो विष्णुः तदभेदं न पश्यति। चेतनाचेतनस्यास्य नाभेदोस्ति ततोमुना। न हि ज्ञानविलोपोस्ति सर्वज्ञस्य परेशितुः॥
ब्रह्माणि जीवाः सर्वेपि परब्रह्माणि मुक्तिगाः। प्रकृतिः परमं ब्रह्म परमं महदच्युतः॥ नैव मुक्ता न प्रकृतिः क्वापि हि ब्रह्मवैभवम्। प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते॥ यद्यस्य परमेशत्वं तदा स्याद्दुःखिता कुतः। दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक्॥ कुतः सर्वविदोज्ञत्वं क्व भ्रमोप्यज्ञतां विना। तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते॥
अहेयत्वदहंनामा भगवान्हरिरव्ययः। ब्रह्मासौ गुणपूर्णत्वात् अस्मि असौ असनान्मितेः। असनादसिनामासौ तेजस्त्वात् त्वमितीरितः। सर्वैः क्रियापदैश्चैव सर्वेः द्रव्यपदैरपि। सर्वैः गुणपदैश्चैव वाच्य एको हरिः स्वयम्। युष्मत्पदैः प्रातियोग्यात् तद्युतैश्च क्रियापदैः। अस्मत्पदैरान्तरत्वात् क्रियार्थैश्च तदन्वयैः। परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु।
सर्वान् वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना। श्वेतकेतुरहङ्कारात् प्रायशो नास्मि मानुषः॥ देवो वा केशवांशो वा नैषा प्रज्ञान्यथा भवेत्। एवं महत्त्वबुद्ध्यैव दर्पपूर्णोभ्यगात् पितुः॥ सकाशमकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत्। पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता॥ प्रायो नारायणं देवं नैव त्वं पृष्टवानसि। यस्मिन् ज्ञाते तु अविज्ञातज्ञानादीनां फलं भवेत्॥ प्राधान्यात् सदृशत्वाच्च तदधीनमिति स्फुटम्। तत्सृष्टं चेति विज्ञातं फलवदि्ध भवेज्जगत्। स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत्॥
यथा चैवैकमृत्पिण्ड ज्ञानादेः सदृशत्वतः। मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत्। यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात्। वाचारब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि। एवं कारणभूतोसौ भगवान् पुरुषोत्तमः। प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत्। तदाधारं विमुक्तौ च तदधीनं सदा स्थितम्। स सूक्ष्मो व्यापकः पूर्णः तदीयमखिलं जगत् । तस्मात् तदीयः त्वमसि नैव सोसि कथञ्चन।
यथा पक्षी च सूत्रं च नाना वृक्षरसा अपि। यथा नद्यः समुद्रश्च यथा वृक्षपरावपि। यथा धानाः परश्चैव यथैव लवणोदके। यथा पुरुषदेशौ च यथाज्ञज्ञानदावपि। यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा। भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित्। एवं भेदोखिलस्यापि स्वतन्त्रात् परमेश्वरात्। परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात्। स जीवनामा भगवान् प्राणधारणहेतुतः। उपचारेण जीवाख्या संसारिणि निगद्यते। तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः।
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा। जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः। विष्णोः प्रज्ञामितं यस्मात् द्वैतं न भ्रान्तिकल्पितम्। अद्वैतः परमार्थोसौ भगवान् विष्णुरव्ययः। परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च। सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता। इत्यादयो गुणा विष्णोः नैवान्यस्य कथञ्चन। अभावः परमद्वैते सन्त्येव ह्यपराणि तु। विकल्पो विनिवर्तेत कल्पितो यदि केनचित्। अद्वैतं ज्ञानिनां पक्षे न तस्मात् विद्यते क्वचित्। इत्यादिश्रुतिभ्यः अर्थान्तरस्यैव अवगतत्वात्।
एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा। न च एकविज्ञानेन सर्वविज्ञानं तत्पक्षे। न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः। नवकृत्वोपि भेदे एव दृष्टान्तोक्तेश्च। तस्मादतत्त्वमसीत्येवोच्यते।
ऐतदात्म्यमित्येतदात्मसम्बन्धि, तत्स्वामिकम्। त्वमपि तदैतदात्म मेवासि न सोसीति वा। तदिति लिङ्गसाम्यं चात्र। अविद्यमानमेव ईश्वरं सृष्ट्यादिकं च अप्राप्तमेव आत्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेः उन्मत्तवाक्यत्वं न स्यात्? अनुवादोपि 'यदिदं वदन्ति तन्न युज्यते'इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः। अतिप्रसङ्गश्चान्यथा। अभेदानुवादेन भेदोपदेशः किमिति न स्यात्?
सर्वशाखान्ते भेदोक्तेश्च एतदेव युक्तम्।
"न असंवत्सरवासिने प्रब्र"यात् न अप्रवक्त्रे इत्याचार्याः आचार्याः"
"अहं विश्वं भुवनमभ्यभवाम्"
"अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति इति ब्रह्मविदो विदुः"
"नमो विष्णवे महते करोमि"
"पश्यन्त्यात्मन्यवस्थितम्"
इत्यादि॥
न चेश्वरः तद्भेदो वा प्रत्यक्षादिसिद्धः। तत्पक्षे तु ऐक्यादेरपि मिथ्यात्वात् स्वरूपस्य च सिद्धत्वात् व्यर्थैव श्रुतिः। लक्षितस्वरूपस्यापि न स्वरूपात् विशेषः। निर्विशेषत्वोक्तेः। मिथ्याविशेषोक्तौ च अप्रामाण्यं श्रुतेः। मिथ्यात्वं च मिथ्यैव तेषाम्। अतः सत्यत्वं सत्यं स्यात् च।
उपाधिकृतभेदे पि उपाधेः मिथ्यात्वे तु अप्राप्तमेव उपाधिभेदं प्रापयित्वा पुनः निषिद्ध्यते इति स एव दोषः। सत्योपाधिपक्षेपि हस्तपादाद्युपाधिभेदेपि भोकतुः एकत्वदृष्टेः एकेनैव ईश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येतेत्येवमादयो दोषाः समा एव। अचेतनानामनुभवाभावात् न तत्साम्यम्। अतो जीवेश्वरयोः भेद एवेति सिद्धम् ॥ १८ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.