B.G 2.16
नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥
Gīta Tātparya 2.16
न च युद्धात्परलोकदुःखमिति शोकः। असत्कर्मणः सकाशात् भावो नास्ति सत्कर्मणः सकाशात् अभावो नास्तीति नियतत्वात्।
"सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः। अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः" ॥ इति शब्दनिर्णये।
"सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥" इति वक्ष्यमाणत्वात्। (गीता. १७-२६)
"असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्" इत्यादेश्च।
अन्तो निर्णयः।
न चाविद्यामानविद्यमानयोरुत्पत्तिनाशनिषेधकोयं श्लोकः। प्रत्यक्षविरोधात्। सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्ग्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति। न च विपर्यये किञ्चिन्मानम्। इदं तु वाक्यमन्यथासिद्धम्।
"आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम्। यद्यसन्न विशेषोत्र जायते कोत्र जायते॥ व्यक्तावपि समं येतदनवस्थान्यथा भवेत्। एवं नाशेपि बोद्धव्यमतोसन्नेव जायते॥ तथाप्यभेदानुभवात् कार्यकारणयोः सदा। भेदस्य चाविशेषेण देहोगात् क्षितितामिति॥ व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा॥" इति ब्रह्मतर्के।
न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम्। न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम्। असतः ख्यात्ययोगादिति वदतोसतः ख्यातिरभून्न वा? यदि नाभूत् न तत्ख्यातिनिराकरणम्। यद्यभूत् तथापि।
न चासतोसत्वेन भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम्। असद्व्यवहारलोपप्रसङ्गाच्च। यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च।
अनिर्वचनीयत्वपक्षेपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम्। भ्रान्तिसत्त्वाङ्गीकारेप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्वप्रतीतौ हि प्रवर्तते। तस्मादुभयविलक्षणं न किञ्चित्।
"विश्वं सत्यम्" । "यच्चिकेत सत्यमित्" । "कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः" इत्यादिश्रुतेश्च ॥१६ ॥