Gīta Tātparya Introduction
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम्। नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते॥
शास्त्रेषु भारतं सारं तत्र नामसहस्रकम्। वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेञ्जसा॥
न भारतसमं शास्त्रं कुत एवानयोः समम्। भारतं सर्ववेदाश्च तुलामारोपिताः पुरा॥
देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्। महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते॥ निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।
"स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः॥ अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम्। चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम्॥"
- इति ब्रह्माण्डे।
तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतमर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्वितदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोप्यधर्मः, भगवदधीनत्वात् सर्वस्येति बोधयति भगवान् नारायणः।
सर्वं चैतदत्रैवावगम्यते –
"अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥" (२-३३)
इत्यादिना युद्धस्य स्वधर्मत्वम्।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिदि्धं विन्दति मानवः॥ (१८-४६)
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ (१८-४७)
सर्वगुह्यतमं भूयः श्रुणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ (१८-६६)
इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।
नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा॥ (११-५३)
भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥ (११-५४)
इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपि मोक्षस्य तदधीनत्वं च।
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥ (११-५५)
इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् । (एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥)
इत्यादिना ज्ञानिनोपि भगवत्कर्म।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥ (११-५२)
इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् । (१८-६४)
दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव॥ (१६-५)
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥ (९-१३)
दर्शयामास पार्थाय परमं रूपमैश्वरम् । (११-९)
इत्यादिनार्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च।
न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः॥ (१०-२)
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥ (१०-३)
बुदि्धर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। (१०-४, ५) (बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥)
"महर्षयः सप्त पूर्वे" ... । (१०-६) (महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥)
"एतां विभूतिं योगं च" ... । (१०-७) (एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ (१०-८)
तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥
"तेषामहं समुद्धर्ता मृत्युसंसारसागरात्"। (तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२-७॥)
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ (५-२९)
ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ॥ (७-२)
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा। (एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥)
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय॥ मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव। (७-७)
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥
"राजविद्या राजगुह्यम्" ... । (राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२॥)
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ (९-४)
"भूतभृन्न च भूतस्थः" ... । (न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५॥)
"न त्वत्समोस्त्यभ्यधिकः कुतोन्यः" (पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४३॥)
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। (परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१॥)
मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२॥
इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वं, तस्यानन्याधीनत्वं, सर्वोत्तमत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं, तथा तज्ज्ञानादेव मोक्ष इत्यादि।
अधा ते विष्णो विदुषा चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता। पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन्। यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात्। (ऋ.मं १, सू. १५६-१)
भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम्। भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत्। ततोपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत्॥
मुक्तोपि तद्वशो नित्यं भूयो भक्तिसमन्वितः। सान्द्रानन्दस्वरूपैव भक्तिर्नैवात्र साधनम्॥
ब्रह्मरुद्ररमादिभ्योप्युत्तमत्वं स्वतन्त्रताम्। सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम्। निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः॥
स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमो मतः। तेनैव मोक्षो नान्येन दृष्ट्यादिः तत्र साधनम्॥
अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः। अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः।
नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः। तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाथवा॥ बहुवारतदभ्यासात्तिरोभावोपि नो भवेत्। यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम्। पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम्॥
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विना विरावत्॥ (ऋ. ७-४०-५)
एको नारायण आसीन्न ब्रह्मा न च शङ्करः। स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त। विश्वो हिरण्यगर्भोग्निर्यमो वरुणरुद्रेन्द्रा इति॥
एको नारायण आसीन्न ब्रह्मा नेशानः।
वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः।
यं यं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम्। शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्तास्य न क्वचित्॥
सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम्। अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः॥
इति पैङ्गिश्रुतिः।
"परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति" । (Rig. 7.99.1)
अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः। न समो वाधिको वापि विद्यते तस्य कश्चन। नासीन्न च भविष्यो वा परतः स्वत एव च।
इत्यादिश्रुतेश्च।
"यस्त्वात्मरतिरेव स्याद्" इत्यादि तु मुक्तविषयम्।
[यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥ B.G 3.17]
"यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि। तस्मात् कुर्वीत कर्माणीत्याह कृष्णोर्जुनं स्मयन्॥" - इति च स्कान्दे।
ज्ञानयोगेन साङ्ख्यानाम् इत्यादि तु बाह्यकर्मसङ्कोचापेक्षया।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। (३-५)
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः। (३-८)
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्। (१८-६)
ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत। न सर्वकर्मणां त्यागः कस्यचिद् भवति क्वचित्। त्यागिनो यतयोपि स्युः सङ्कोचाद् बाह्यकर्मणाम्।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः।
इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम्॥