Bhagavad Gīta Bhāshya and Tātparya
B.G 18.67
इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥६७॥
Gīta Tātparya 18.67
अतपस्कायैव न वाच्यम्। अशुश्रूषवे पुनश्चेति दोषाधिक्यमशुश्रूषोः दर्शयितुं चशब्दः। एवं मभक्ताय कदापि न वाच्यम्।
कदाचिदल्पतपसोऽल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति विशेषः। अभक्ताच्च न वाच्यमसूयोरिति तत्रापि चशब्दः।
"समुच्चये तथाधिक्ये न्यूनत्वे च प्रयुज्यते।"
इति शब्दनिर्णये।
"अभक्तादपि पापः स्यादसूयुर्दोषद्रुग्यतः।"
इति च पाद्मे ॥६७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.