B.G 18.51-55
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥५२॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥५३॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥५४॥
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥५५॥
Gīta Bhāshya 18.51-55
ब्रह्मभूयाय कल्पते - ब्रह्मणि भावः ब्रह्मभूयम्। ब्रह्मणि स्थितिः सर्वदा तन्मनस्कतेत्यर्थः ॥५३॥
Gīta Tātparya 18.51-55
वक्ष्यमाणप्रकारेण वर्तमानः तदनन्तरं नैष्कर्म्य सिदि्धं प्राप्तो भूत्वा ब्रह्माख्यायाः महालक्ष्म्याः सकाशं यथा प्राप्नोति तथा निबोध।
मम योनिः र्महद् ब्रह्म" "ब्रह्मणो हि प्रतिष्ठाहम्" इत्युक्तत्वात् "ब्रह्मभूतः प्रसन्नात्मा" इत्युक्त्वा "मद्भक्तिं लभते पराम्" इति वक्ष्यमाणत्वाच्च।
"सर्वपापक्षयाद् देहं त्यक्त्वा देवान् क्रमाद् व्रजन्। प्राप्य लक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा। भक्तिस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते। अपरोक्षदृशो विष्णोः शरीरेऽपि सतः पुरा॥ त्यक्तदेहादिकस्यापि यावद्विष्णुं प्रपद्यते। तावद्गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम्॥"
इति महावराहे॥
"विमुच्य निर्ममः शान्तः" नैष्कर्म्यसिदि्धं प्राप्तो भूत्वा ब्रह्मणि भूयाय भवतीत्यर्थः॥