B.G 18.48
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥४८॥
Gīta Tātparya 18.48
शमो दमः तपः शौचं क्षाञ्तिरार्जवमेव च। ज्नानं विज्नानमास्तिक्यं विप्रकर्म स्वभावजम्॥
एते गुणाः किञ्चिदोनाः विप्रात् क्षत्रिय एव च। अधिका वा ब्राह्मणेभ्यः केषुचित् चक्रवर्तिषु॥
ऋषयस्त्वेव विज्नेयाः कार्तवीर्यादयो न्रुपाः। शौर्यं तेजो ध्रुतिर्दाक्ष्यं युद्धे चाप्यपलायनम्॥
दानमीश्वरभावश्च क्ष्त्रियेऽन्ये गुणा अपि। क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः॥
तत ऊनः शमाद्यैः यः शुश्रूषुः शूद्र उच्यते। अधिकाश्चेद् गुणाः शूद्रे ब्राह्मणादिः स उच्यते॥
ब्राह्मणोऽप्यल्पगुणकः शूद्र एवेति कीर्तितः। नरोऽपि यो देवगुणो ज्ञेयो देवो नृतां गतः॥
इति च।
"स्वकर्मणा तमभ्यर्च्य"
इति वचनाच्च क्षत्रियादिष्वपि शमाद्यनुवृत्तिः ज्ञायते। न हि शमादिकं विना तस्य अभितोऽर्चनं भवति। सम्यक् शमादिभिः अर्चनं हि अभ्यर्चनम्। न हि शमादीन् विना सिद्धिं विन्दति।
"यज्ञदानतपः कर्म न त्याज्यम्"
इत्युक्तत्वाच्च।
"शमोमन्निष्ठता बुद्धेः दम इंद्रियनिग्रहः"
इत्युक्त्वाच्च भागवते।
न च क्षत्रियादिभिरपि शौचतपःशमादिभिः हीनैः भवितव्यमिति तत्तद्धर्मेषु उच्यते।
युक्ता हि एतैः सर्वैः र्गुणैः जनकतुलाधारादयः। अतो युद्धकाले अपलायनं ऐश्वर्यं च क्षत्रियस्य विशेषगुणौ।
तौ च, कृष्यादयः, जीवनार्थं शुश्रूषा, याजनं, जीवनार्थं प्रतिग्रहश्चेत्येत एव अन्येषां परधर्माः।
"शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेधिकाः। तद्धीना ब्राह्मणे तस्माद् वैश्ये शूद्रे ततोऽल्पकाः॥
अध्यापनं च शुश्रूषा जीवनार्थमृते सताम्। विप्रादिषु क्रमात् ज्ञेयाः शूद्रस्याध्यापनं विना॥
तस्मात् शूद्रोऽल्पशुश्रूषुः स्वभावात् जीवनं विना। एते नैसर्गिका भावाः स्याद्भावोऽन्योपि कुत्रचित्। बलाद् विरुद्धभावस्तु हेयः स्वाभाविकोऽपि यः॥
अनिसर्गोपि हि शुभो वर्धनीयः प्रयत्नतः। याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि। अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते॥"
इति च।
"प्रसह्य वित्ताहरणं शारीरो दण्ड एव च। अशिष्याणां शासनं च तथैवार्थविनाशनम्॥ एषु ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः। सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा॥
अङ्गाद्यहानिकृद् दण्डः शिष्येषु ब्राह्मणादिभिः। कार्यो देहेपि शिष्यस्य स्वामिना स्वेन वार्पितः॥
पुत्रानुजादयः सर्वे शिष्या एव निसर्गतः। गुरुवश्चैव मित्राणि सखिसब्रह्मचारिणः॥ सम्बन्धिनश्च सर्वेपि तत्तद्योग्यतयाखिलैः। शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः॥
उन्मादे बन्धानाद्यैर्वा ताडनं न गुरोः क्वचित्। पापं चरन्तस्त्वन्येपि सर्वैः द्रुष्टिपथं गताः। शक्तितो वारणीयाः स्युः देशकालानुसारतः। तदुत्तमविरोद्धारः सन्त्याज्या गुरुवोपि तु॥
यथाशक्त्यनुशास्यैव कालतोपि न चेत् शुभाः। विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव च॥
शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत्। महान्तो नानुशास्याश्च विरुद्धाचरिता अपि॥ यदि च स्वाधिकानां ते विरोधं नैव कुर्वते॥"
इत्यादि च।
THIS PORTION COULD BE A LATER ADDITION BY ORTHODOXY, AS THIS DOES NOT ALIGN WITH THE REST OF ĀCHĀRYA'S THOUGHT PROCESS. TO BE NOTED IS THE FACT THAT THEY ARE JUST QUOTES WITH NO COMMENT BY ĀCHĀRYA.
------------------ START ------------------
"आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत्। क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित्॥
क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि। क्षत्रियो विप्रधर्मापि नैव भैक्ष्यप्रतिग्रही॥
वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम्। शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः॥
शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेत्। अत्यापदि क्षत्रियोऽपि पादशुश्रूषणे विना॥
शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति। येषु कर्मसु याच्यःस्मात् स्वामिनापि न याचिता॥
शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि। आत्मनश्चेद्बलाधिक्यं सानुबन्धादपि प्रभोः॥
धर्मार्थं सेवतोऽर्थार्थं विप्रधर्माधिकाद्वरः। प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक्॥
बाह्वोर्बलाधिको यः स्यात् क्षत्रियो विद्ययाधिकः। विप्रो भागवतौ चैतौ सेशा लोकास्तयोरिमे॥"
इति व्यासस्मृतौ॥
------------------ END ------------------