Bhagavad Gīta Bhāshya and Tātparya
B.G 18.12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१२॥
Gīta Bhāshya 18.12
त्यागं स्तौति- अनिष्टम् इति ॥१२॥
Gīta Tātparya 18.12
अन्येषामिष्टम्। अस्य तु त्यागित्वादेव नेष्टम्।
"ज्ञानादेः मोक्षभोग्याच्च नान्यत् स्यात् कर्मणः फलम्। त्यागिनः तत्त्वसंवेत्तुः अन्येषां तदृते फलम्॥"
इति च।
केवलकाम्यकर्मणां परापेक्षयापि अकरण मित्येतावांस्त्यागात् संन्यासस्य विशेष इत्यत्यागिनां प्रतियोगित्वेन न्यासिनः उक्ताः। त्यागित्वं तेषामपि हि अस्ति।
"परेच्छयापि ये काम्यं कर्म कुर्युः न तु क्वचित्। न्यासिनो नाम ते अन्येभ्यः फलत्यागिभ्य उत्तमाः॥"
इति च ॥१२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.