B.G 13.30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ॥३०॥
Gīta Bhāshya 13.30
आत्मानं च आकर्तारं पश्यति सः पश्यति ॥३०॥
Gīta Tātparya 13.30
प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि। विष्णोः न अन्यः पूर्वप्रेरकः इति।
"पूर्वं तु बादरायणो हेतुव्यपदेशात्"
इति भगवद्वचनात्। (॥ब्र.सू ३.२.४२॥)
"द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥"
इति च।
"स्वयं प्रकृत्य भगवान् करोति निखिलं जगत्। नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः॥"
इति स्कान्दे।
तेनेति प्रस्तुतत्वादेव सिद्धम्।
"अहं सर्वस्य प्रभवः",
"स हि कर्ता"
कर्तारमीशं पुरुषं ब्रह्मयोनिम्
"जन्माद्यस्य यतः"
"म्त्त एवेति तान् विद्धि"
इत्यादि सकलप्रमाणविरोधश्च अन्यथा। "प्रकृत्यैव च" इति चशब्दात् तेनैवेति सिद्ध्यति।
"प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत्। क्वचित् समुच्चयं ब्रूयात् क्वचित् दौर्लभ्यवाचकः॥"
इति शब्दनिर्णये।
प्रकृतेः कर्तृत्वं "रचनानुपपत्तेश्च नानुमानम्" इत्यादिना च निरस्तम्।
"न ऋते त्वत् क्रियते किञ्चनारे"
इति च।
केवलप्रकृतेः कर्तृत्वाङ्गीकारे च शब्दो व्यर्थः।
"तत एव च विस्तारम्"
इति वाक्यशेषविरोधश्च।
"अहं बीजप्रदः पिता"
इति वक्ष्यमाणमत्रापि "क्षेत्रक्षेत्रज्ञसंयोगात्" इति प्रकृतमिति तेनापि विरोधः। अचेतनं करोतीति स्वोक्तिविरोधश्च।
"इच्छापूर्वं क्रियादानं कर्तृत्वं मुख्यमीरितम्॥"
इति पैङ्गिश्रुतिः।
विकारलक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव। तथापि लक्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् "सर्वशः" इत्यस्य सङ्कोचप्राप्तिः।
"अचेतनाश्रितं कर्म विकारात्मकमीरितम्। यत्तु केवलचित्संस्थं प्रत्यभिज्ञाप्रमाणतः। अविकारात्मकं ज्ञेयं तन्न तत् प्राकृतं भवेत्॥"
इति च ॥३०॥