B.G 11.26-30
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥२७॥
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥२९॥
लेलिह्यसे ग्रसमानः समन्तालोकान् समग्रान् वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥३०॥
Gīta Tātparya 11.26-30
अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रलयोदके प्रजानां प्रवेशवत् प्रवेशो युज्यते। सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्च उभे सेने तत्र प्रविशतः। ये तु तस्मिन् मुहूर्ते मरिष्यन्ति तेषां दशनान्तरे चूर्णितमपि शिरः सूक्ष्मदृष्टिगोचरत्वात् मानुषदृष्ट्या तथा न दृश्यते। यथा भिन्नमपि घटादिकं यावत् न पृथङ्ग् पतति तावत् मन्ददृष्टीनां न ज्ञायते। यथा पुरूरवसो जरा अश्विभ्यामेव दृष्टा॥