B.G 11.20
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥
Gīta Bhāshya 11.20
"मातापित्रोरन्तरगः स एकरूपेण चान्यैः सर्वगतः स एकः।"
इति वारुणश्रुतेः एकेनैव द्यावापृथिव्योः अन्तरं व्याप्तो भवति।
"पश्य मे पार्थ रूपाणि"
इति बहूनि रूपाणि प्रतिज्ञातानि। मातापितरौ च पृथिवीद्यावौ-
"मानो माता पृथिवी दुर्मतौ धात्", "मधु द्यौरस्तु नः पिता"
इत्यादिप्रयोगात्। न तु नियमतो भयप्रदं तत्स्वरूपम्। नारदस्य तदभावात्। केषाञ्चित् तथा दर्शयति भगवान्।
"प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः।"
इति वारुणशाखायाम्।
न तु तं सर्वे पश्यन्ति। अदृष्ट्वापि तन्निरूप्य भये द्रष्टुः तथा प्रतिभाति। तथा च गौतमखिलेषु-
"दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयात् बिभ्यतो दृष्टवत् ते। पश्यन्ति ते न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात्॥"
इति ॥२०॥
Gīta Tātparya 11.20
द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम्। "नान्तं न मध्यम्" इत्युक्तत्वात् पुनः "अनादिमध्यान्तम्" इति गुणानन्त्यापेक्षया। "त्वया ततं विश्वमनन्तरूप" इति कालापेक्षया। स्वयमन्तं विद्यमानमपि न पश्यतीत्याशङ्क्य "त्वया ततं विश्वमनन्तम्" इत्याह। अन्यत् तात्पर्यज्ञापनाय अभ्यासरूपम्।
"सर्वं समाप्नोषि ततोऽसि सर्वः" इति "सर्वं खल्विदं ब्रह्म" इत्यादिषु सर्वशब्दव्याख्यानरूपम्॥
"त्रिलोकेषु स्थितैः भक्तैरर्जुनाय प्रदर्शितम्। दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः॥"
प्रायः सहैव पार्थेन प्रायो भीताश्च तेऽखिलाः। दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकता भवेत्॥
तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात्। उग्रत्वमिव सर्वत्र न भीतिः ब्रह्मदर्शिनाम्॥
अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत्। श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः॥"
इत्याग्नेयवचनात्।
"दृष्ट्वाद्भुतं रूपम्" इत्यादि युज्यते ॥२०॥