Bhagavad Gīta Bhāshya and Tātparya
B.G 11.14
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४॥
Gīta Tātparya 11.14
"आत्मानमव्ययम्", "परमं रूपमैश्वरम्", "सर्वाश्चर्यमयं देवमनन्तं विश्वतो-मुखम्ऽ" - इत्यादिरूप विशेषणाच्च रूपस्य ईश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम्।
"मम देहे" इत्युक्तत्वाच्च आदित्यादीनां भेदः सिद्धः।
"मे रूपाणि", "सर्वतोऽनन्तरूपम्" इत्यादेः "द्रष्टुमिच्छामि ते रूपम्" इत्यादेश्च एकस्यैव अभिन्नानन्तरूपत्वं च।
"एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः। बहुसङ्ख्यागोचरं च विशेषादेव केवलम्॥
अभावो यत्र भेदस्य प्रमाणावसितो भवेत्। विशेषो नामा तत्रैव विशेषव्यवहारवान्॥
विशेषोऽपि स्वरूपं स स्वनिर्वाहक एव च। द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायते॥
नित्या एव विशेषाश्च केचिदेवं द्विधैव सः। वस्तु-स्वरूपम्-अस्त्येव-इत्येवं-आदिषु-अभेदिनः॥
विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु। न चाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम्॥
विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः। नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत्॥
स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम्। न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः॥
अभेदे न विरोधोऽस्ति ज्ञाताज्ञातं यतोऽखिलम्। तदेव ज्ञातरूपेण ज्ञातम् अज्ञातम् अन्यथा॥
अभिन्नस्य विशिष्टत्वात् न दोषद्वयमप्युत। एकत्वानुभवाच्चैव विशेषानुभवादपि। तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः॥
भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे। मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित्॥
भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवेत्। शुद्धस्वरूप इत्यादौ अभेदस्यैव दर्शनात्॥
अपृथग् दृष्टि-नियमात् बल-ज्ञान-आदिकस्य च। ऐक्यं बाह्य-विशेषाणां पृथग् दृष्ट्यैव तन् न तु॥
विशेष-हेत्व-अभावेऽपि द्वैविध्यं कल्प्यते यदि। कल्पना-गौरव-आद्याः तु दोषाः तत्र अतिसङ्गताः॥
नैकत्वं नापि नानात्वं नियमादस्त्यचेतने। भेदाभेदावनुभवादतस्तत्रान्यथागतेः॥
एकोऽहमन्यतोऽन्यश्चेत्येवमेव व्यवस्थितौ। भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता॥
एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः। पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत्॥
तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः। अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत्॥
न चात्मनि विशेषोऽत्र दृष्टान्तत्वं गमिष्यति। शुद्धोऽहम्प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः॥
अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः। न चानवयवं वस्तु क्वचित् स्यात् मानगोचरम्॥
पूर्वापरादिभेदेन यतोऽंशोऽस्यावगम्यते। उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि। ज्ञापयेद् भेदमखिलं ग्रसन् स विभजेत् कथम्॥
तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित्। भावाभावव्यवहृतेः विद्यमानेऽपि वस्तुनि। भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ॥
चेतने शक्तिरूपेण गुणादेः भाव इष्यते। सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः॥
न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित्। एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यन् तान् एव अनुविधावति। इत्यादि-श्रुतिमानात् च परम्-ऐश्वर्यतः तथा। सर्वं तु घटते विष्णौ यत् कल्याण-गुण-आत्मकम्॥
इत्यादि ब्रह्मतर्के ॥१४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.