Bhagavad Gīta Bhāshya and Tātparya
B.G 9.11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम् ॥११॥
Gīta Bhāshya 9.11
तर्हि केचित् कथं त्वां अवजानन्ति, का च तेषां गतिः इत्यत आह - अवजानन्ति इत्यादिना॥
मानुषीं तनुं मूढानां मानुषवत् प्रतीतां तनुम्। न तु मनुष्यरूपाम्। उक्तं च मोक्षधर्मे -
"यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते। सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः॥ ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्। भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च। भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम॥"
इति।
अवतारप्रसङ्गे चैतदुक्तम्। अतो नावताराः पृथक् शङ्क्याः।
"रूपाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः। वाराहं नारसिंहं च वामनं मानुषं तथा॥"
इति।
तत्रैव प्रथमसर्गकाले एव अवान्तररूपविभक्त्युक्तेश्च। अतो न तेषां मानुषत्वादिः विना भ्रान्तिम्। भूतं महत् ईश्वरं चेति भूतमहेश्वरम्। तथाहि बाभ्रव्यशाखायाम् -
"अनाद्यनन्तं परिपूर्णरूपं ईशं वराणामपि देववीर्यम्।"
इति।
"अस्य महतो भूतस्य निःश्वसितम्।"
इति च।
"ब्रह्मपुरोहित ब्रह्मकायिक महाराजिक।"
इति च मोक्षधर्मे ॥११॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.