Bhagavad Gīta Bhāshya and Tātparya
B.G 9.08
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नं अवशं प्रकृतेर्वशात् ॥८॥
Gīta Bhāshya 9.08
प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डम् अवष्टभ्य गच्छति।
"सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि।"
इति च मोक्षधर्मे।
"सर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुमर्हसि।"
इति च।
"विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति॥"
इति च।
"न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य। तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु॥"
इति ऋग्वेदखिलेषु।
"मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे।"
इति भागवते।
"अथ कस्मादुच्यते परं ब्रह्म इति बृंहति बृंहयति च।"
इति च अथर्वणे।
"पराऽस्य शक्तिर्विविधैव श्रूयते।"
इति च।
"विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि॥", "न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप॥"
इत्यादेश्च।
प्रकृतेः वशादवशम्।
"त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव। मायावशं चावशलोकमेतत्तस्मात् स्रक्ष्यस्यत्सि पासीश विष्णो॥"
इति गौतमखिलेषु ॥८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.