Bhagavad Gīta Bhāshya and Tātparya
B.G 8.04
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥
Gīta Bhāshya 8.04
भूतानि सशरीरान् जीवान् अधिकृत्य यत् तत् अधिभूतम्। क्षरो भावः विनाशिकार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्यापि अन्यथाभावाख्यः विनाशः अस्त्येव। तच्चोक्तम् -
"अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते॥"
इति।
"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।"
इति च।
"विकारोऽव्यक्तजन्म हि"
इति च स्कान्दे।
पुरि शयनात् पुरुषः जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवान् अधिकृत्य तत्पतिः इति अधिदैवतम्। देवाधिकारस्थः इति वा।
सर्वयज्ञ भोक्तृत्वादेः अधियज्ञः। अन्यः अधियज्ञः अग्न्यादिः प्रसिद्धः इति देहे इति विशेषणम्।
'भोक्तारं यज्ञतपसाम्', 'त्रैविद्या माम्', 'येऽप्यन्यदेवताभक्ताः', 'एतस्य वाक्षरस्य प्रशासने गार्गि', 'ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः'।
इत्यादेः।
"कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैःश्रेयसं परम्।"
इत्यादिपरिहाराच्च मोक्षधर्मे।
भगवान् चेत् तद् भोक्तृत्वादेः अधियज्ञत्वं सिद्धम् इति कथम् इत्यस्य परिहारः पृथक् नोक्तः। सर्वप्राणिदेहस्थः रूपेण सः अधियज्ञः।
'अत्र' इति स्वदेहनिवृत्त्यर्थम्। न हि तत्र ईश्वरस्य नियन्तृत्वं पृथगस्ति। नात्रोक्तं ब्रह्म भगवतः अन्यत्। 'ते ब्रह्म' - इत्युक्त्वा 'साधिभूताधिदैवं मां साधियज्ञं च ये विदुः' - इति परामर्शात्। तस्यैव च प्रश्नात्। 'साधि यज्ञम्' इति भेदप्रतीतेः तन्निवृत्त्यर्थम् 'अधियज्ञोऽहम्' - इत्युक्तम्। 'माम् ' इति अभेदप्रतीतेः 'अक्षरम्' इत्येवोक्तम्। आह च गीताकल्पे -
"देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः। कर्मेश्वरस्य सृष्ट्यार्थं तच्चापीच्छाद्यमुच्यते॥ अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते। हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा॥ ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः॥"
इति।
"यथाप्रतीतं वा सर्वमत्र नैव विरुद्ध्यते॥"
इति च।
स्कान्दे च-
"आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते। देहाद्बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम्॥ देवाधिकारगं सर्वं महाभूताधिकारगम्। तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्॥"
इति॥
महाकौर्मे च -
"अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम्। सदेहजीवभूतानि यत्तेषामुपकारकृत्। अधिभूतं तु मायान्तं देवानामधिदैवतम्॥"
इति॥४॥
Gīta Tātparya 8.04
उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते। तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्। उपरि 'साधियज्ञं चे' इति चशब्दात् अधिभूतादि सहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः 'किं तद् ब्रह्म' इति प्रश्नकारणम्। परमाक्षरो विष्णुरेव मुख्यतः इति प्रसिद्धत्वात् तथैव परिहरति। अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः।
पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्' इति विष्णावेव प्रयुक्तेन अव्यक्तशब्देन 'अव्यक्तोऽक्षर इत्युक्तः' इति परिह्रियते।
'ये चाप्यक्षरमव्यक्तम्' इत्यत्र तु पृथक् प्रश्नात् उपासकयोः फलतारतम्यकथनात् 'कूटस्थोऽक्षर उच्यते' इत्युक्त्वा 'अहमक्षरादपि चोत्तमः' इति विष्णोरुत्तमत्वकथनाच्च अन्यदेवेत्यवसीयते।
'अधियज्ञोऽहमेव' इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम्। तस्यैव सर्वप्राणिदेहस्थितरूपान्तरापेक्षया सहितत्वं युज्यते।
"प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः। स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते॥ तैस्तैरधिकयाज्यत्वादत् बृंहितत्वाच्च हेतुतः। अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः॥ पुंसां सजडभावानां सर्गः कर्म हरेः स्मृतम्। भूताधिकत्वतो जीवा अधिभूतमितीरिताः॥ अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा। पुरु प्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः॥"
इति तत्त्वविवेके।
कथंरूपोऽधियज्ञ इति प्रश्नस्तु 'अहमेव' इत्युक्तत्वात् तल्लक्षणोक्त्यैव परिहृतः ॥४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.