Bhagavad Gīta Bhāshya and Tātparya
B.G 7.14
दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४॥
Gīta Bhāshya 7.14
कथम् अनादिकाले मोहानत्ययः बहूनाम् इत्यतः आह - दैवि इति।
अयमाशयः - माया हि एषा मोहिका। सा हि सृष्ट्यादिक्रीडादि- मद्देवसम्बन्धित्वात् अतिशक्तेः दुरत्यया। तथा हि देवशब्दार्थं पठन्ति - 'दिवु क्रीडा-विजिगीषा-व्यवहारद्युति-स्तुति-मद -मोद-स्वप्न-कान्ति-गतिषु' इति। कथं दैवी।मदीयत्वात् अहं हि देवः इति। अब्रवीच्च -
"श्रीर्भूर्दुर्गेति या भिन्ना महामाया तु वैष्णवी। तच्छक्त्यनन्तांशहीनाऽथापि तस्याश्रयात्प्रभोः। अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलापि हि। तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः॥"
इति व्यासयोगे।
तर्हि न कथञ्चिदत्येतुं शक्यत इत्यत आह - मामेव इति।
अन्यत्सर्वं परित्यज्य मामेव ये प्रपद्यन्ते। गुर्वादिवन्दनं च मय्येव समर्पयन्ति स एव च तत्र स्थित्वा गुर्वादिर्भवति इत्यादि पश्यन्ति। आह च नारदीये -
"मत्सम्पत्त्यातु गुर्वादीन् भजन्ते मध्यमा नराः। मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः॥"
इति।
"आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि।"
इति च ॥१४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.